श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
पितासि लोकस्य चराचरस्य
त्वमस्य पूज्यश्च गुरुर्गरीयान्
त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो
लोकत्रयेऽप्यप्रतिमप्रभाव ॥ ४३ ॥
पिता असि जनयिता असि लोकस्य प्राणिजातस्य चराचरस्य स्थावरजङ्गमस्य केवलं त्वम् अस्य जगतः पिता, पूज्यश्च पूजार्हः, यतः गुरुः गरीयान् गुरुतरःकस्मात् गुरुतरः त्वम् इति आह त्वत्समः त्वत्तुल्यः अस्ति हि ईश्वरद्वयं सम्भवति, अनेकेश्वरत्वे व्यवहारानुपपत्तेःत्वत्सम एव तावत् अन्यः सम्भवति ; कुतः एव अन्यः अभ्यधिकः स्यात् लोकत्रयेऽपि सर्वस्मिन् ? अप्रतिमप्रभाव प्रतिमीयते यया सा प्रतिमा, विद्यते प्रतिमा यस्य तव प्रभावस्य सः त्वम् अप्रतिमप्रभावः, हे अप्रतिमप्रभाव निरतिशयप्रभाव इत्यर्थः ॥ ४३ ॥

गुणाधिक्यात् पूजार्हत्वम् । धर्मात्मज्ञानसम्प्रदायप्रवर्तकत्वेन शिक्षयितृत्वात् गुरुत्वम् । गुरूणामपि - सूत्रादीनां गुरुत्वात् गरीयस्त्वम् । तदेव प्रश्नद्वारा साधयति-

कस्मादिति ।

ईश्वरान्तरं तुल्यं भविष्यति इत्याशङ्क्य, आह-

न हीति ।

ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात् तदैकमत्ये हेत्वभावात् , नानामतित्वे च एकस्य सिसृक्षायाम् अन्यस्य सञ्जिहीर्षासम्भवात् व्यवहारलोपात् अयुक्तम् ईश्वरनानात्वम् इत्यर्थः ।

अभ्यधिकासत्वं कैमुतिकन्यायेन दर्शयति-

त्वत्सम इति ।

तत्र हेतुम् अवतार्य, व्याकरोति-

अप्रतिमेत्यादिना

॥ ४३ ॥