गुणाधिक्यात् पूजार्हत्वम् । धर्मात्मज्ञानसम्प्रदायप्रवर्तकत्वेन शिक्षयितृत्वात् गुरुत्वम् । गुरूणामपि - सूत्रादीनां गुरुत्वात् गरीयस्त्वम् । तदेव प्रश्नद्वारा साधयति-
कस्मादिति ।
ईश्वरान्तरं तुल्यं भविष्यति इत्याशङ्क्य, आह-
न हीति ।
ईश्वरभेदे प्रत्येकं स्वातन्त्र्यात् तदैकमत्ये हेत्वभावात् , नानामतित्वे च एकस्य सिसृक्षायाम् अन्यस्य सञ्जिहीर्षासम्भवात् व्यवहारलोपात् अयुक्तम् ईश्वरनानात्वम् इत्यर्थः ।
अभ्यधिकासत्वं कैमुतिकन्यायेन दर्शयति-
त्वत्सम इति ।
तत्र हेतुम् अवतार्य, व्याकरोति-
अप्रतिमेत्यादिना
॥ ४३ ॥