श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन प्रव्यथितं मनो मे
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
अदृष्टपूर्वं कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मिभयेन प्रव्यथितं मनः मेअतः तदेव मे मम दर्शय हे देव रूपं यत् मत्सखम्प्रसीद देवेश, जगन्निवास जगतो निवासो जगन्निवासः, हे जगन्निवास ॥ ४५ ॥

हेतूक्तिपूर्वकं विश्वरूपोपसंहारं प्रार्थयते-

अदृष्टेति ।

हृषितः - हृष्टः, तुष्टः - इति यावत् । भयेन - तद्देतुविकृतदर्शनेन, इत्यर्थः ।

॥ ४५ ॥