श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा
भयेन प्रव्यथितं मनो मे
तदेव मे दर्शय देव रूपं
प्रसीद देवेश जगन्निवास ॥ ४५ ॥
अदृष्टपूर्वं न कदाचिदपि दृष्टपूर्वम् इदं विश्वरूपं तव मया अन्यैर्वा, तत् अहं दृष्ट्वा हृषितः अस्मि । भयेन च प्रव्यथितं मनः मे । अतः तदेव मे मम दर्शय हे देव रूपं यत् मत्सखम् । प्रसीद देवेश, जगन्निवास जगतो निवासो जगन्निवासः, हे जगन्निवास ॥ ४५ ॥

हेतूक्तिपूर्वकं विश्वरूपोपसंहारं प्रार्थयते-

अदृष्टेति ।

हृषितः - हृष्टः, तुष्टः - इति यावत् । भयेन - तद्देतुविकृतदर्शनेन, इत्यर्थः ।

॥ ४५ ॥