मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
श्रीमद्भगवद्गीताभाष्यम्
एकादशोऽध्यायः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
आनन्दगिरिटीका (गीताभाष्य)
श्रीभगवानुवाच —
मया
प्रसन्नेन
तवार्जुनेदं
रूपं
परं
दर्शितमात्मयोगात्
।
तेजोमयं
विश्वमनन्तमाद्यं
यन्मे
त्वदन्येन
न
दृष्टपूर्वम्
॥ ४७ ॥
मया
प्रसन्नेन
,
प्रसादो
नाम
त्वयि
अनुग्रहबुद्धिः
,
तद्वता
प्रसन्नेन
मया
तव
हे
अर्जुन
,
इदं
परं
रूपं
विश्वरूपं
दर्शितम्
आत्मयोगात्
आत्मनः
ऐश्वर्यस्य
सामर्थ्यात्
।
तेजोमयं
तेजःप्रायं
विश्वं
समस्तम्
अनन्तम्
अन्तरहितं
आदौ
भवम्
आद्यं
यत्
रूपं
मे
मम
त्वदन्येन
त्वत्तः
अन्येन
केनचित्
न
दृष्टपूर्वम्
॥ ४७ ॥
मयेति
;
भगवत्प्रसादैकोपायलभ्यं तद्दर्शनम् , इत्याशयेन आह-
मयेति
॥ ४७ ॥