तच्छब्देन प्रकृतं दर्शनं परामृश्यते । वेदाध्ययनात् पृथक् यज्ञाध्ययनग्रहणं पुनरुक्तेः अयुक्तम् , इत्याशङ्क्य, आह-
न वेदेति ।
न च - वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतम् , अध्ययनस्य अर्थावबोधान्तत्वात् - इति वाच्यम् ; तस्य अक्षरग्रहणान्ततया वृद्धैः साधितत्वात् , इति भावः । श्लोकपूरणार्थम् असंहितकरणम् । त्वत्तोऽन्येन, मदनुग्रहविहीनेन इति शेषः
॥ ४८ ॥