श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
वेदयज्ञाध्ययनैर्न दानैर्न क्रियाभिर्न तपोभिरुग्रैः
एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥ ४८ ॥
न वेदयज्ञाध्ययनैः चतुर्णामपि वेदानाम् अध्ययनैः यथावत् यज्ञाध्ययनैश्च — वेदाध्ययनैरेव यज्ञाध्ययनस्य सिद्धत्वात् पृथक् यज्ञाध्ययनग्रहणं यज्ञविज्ञानोपलक्षणार्थम् — तथा न दानैः तुलापुरुषादिभिः, न च क्रियाभिः अग्निहोत्रादिभिः श्रौतादिभिः, न अपि तपोभिः उग्रैः चान्द्रायणादिभिः उग्रैः घोरैः, एवंरूपः यथादर्शितं विश्वरूपं यस्य सोऽहम् एवंरूपः न शक्यः अहं नृलोके मनुष्यलोके द्रष्टुं त्वदन्येन त्वत्तः अन्येन कुरुप्रवीर ॥ ४८ ॥

तच्छब्देन प्रकृतं दर्शनं परामृश्यते । वेदाध्ययनात् पृथक् यज्ञाध्ययनग्रहणं पुनरुक्तेः अयुक्तम् , इत्याशङ्क्य, आह-

न वेदेति ।

न च - वेदाध्ययनग्रहणादेव यज्ञविज्ञानमपि गृहीतम् , अध्ययनस्य अर्थावबोधान्तत्वात् - इति वाच्यम् ; तस्य अक्षरग्रहणान्ततया  वृद्धैः साधितत्वात् ,  इति भावः । श्लोकपूरणार्थम् असंहितकरणम् । त्वत्तोऽन्येन, मदनुग्रहविहीनेन इति शेषः

॥ ४८ ॥