सञ्जय उवाच —
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः ।
आश्वासयामास च भीतमेनं
भूत्वा पुनःसौम्यवपुर्महात्मा ॥ ५० ॥
इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनः । आश्वासयामास च आश्वासितवान् भीतम् एनम् , भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥ ५० ॥