अर्जुन उवाच —
दृष्ट्वेदं मानुषं रूपं
तव सौम्यं जनार्दन ।
इदानीमस्मि संवृत्तः
सचेताः प्रकृतिं गतः ॥ ५१ ॥
दृष्ट्वा इदं मानुषं रूपं मत्सखं प्रसन्नं तव सौम्यं जनार्दन, इदानीम् अधुना अस्मि संवृत्तः सञ्जातः । किम् ? सचेताः प्रसन्नचित्तः प्रकृतिं स्वभावं गतश्च अस्मि ॥ ५१ ॥