श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सञ्जय उवाच
इत्यर्जुनं वासुदेवस्तथोक्त्वा
स्वकं रूपं दर्शयामास भूयः
आश्वासयामास भीतमेनं
भूत्वा पुनःसौम्यवपुर्महात्मा ॥ ५० ॥
इति एवम् अर्जुनं वासुदेवः तथाभूतं वचनम् उक्त्वा, स्वकं वसुदेवस्य गृहे जातं रूपं दर्शयामास दर्शितवान् भूयः पुनःआश्वासयामास आश्वासितवान् भीतम् एनम् , भूत्वा पुनः सौम्यवपुः प्रसन्नदेहः महात्मा ॥ ५० ॥

तदिदं वृत्तं राज्ञे सूतो निवेदितवान् , इत्याह-

सञ्जय इति ।

तथाभूतं वचनं - “ मया प्रसन्नेन “ इत्यादि । चतुर्भुजं रूपम् ।

किं, तस्य रूपस्य परिचितपूर्वस्य प्रदर्शनेन प्रसन्नदेहत्वेन च अर्जुनं प्रति आश्वासनं भगवतो युक्तम् इत्यत्र हेतुम् आह-

महात्मेति ।

॥ ५० ॥