श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
नाहं वेदैर्न तपसा
दानेन चेज्यया
शक्य एवंविधो द्रष्टुं
दृष्टवानसि मां यथा ॥ ५३ ॥
अहं वेदैः ऋग्यजुःसामाथर्ववेदैः चतुर्भिरपि, तपसा उग्रेण चान्द्रायणादिना, दानेन गोभूहिरण्यादिना, इज्यया यज्ञेन पूजया वा शक्यः एवंविधः यथादर्शितप्रकारः द्रष्टुं दृष्टावान् असि मां यथा त्वम् ॥ ५३ ॥

वेदादिषु उपायेषु सत्स्वपि भगवान् उक्तरूपो न शक्यो द्रष्टुम् इत्याह-

नाहमिति ।

तर्हि दर्शनायोग्यत्वात् द्रष्टुम् अशक्यत्वम् इत्याशङ्क्य आह-

दृष्टवान् इति

॥ ५३ ॥