श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
भक्त्या त्वनन्यया शक्य
अहमेवंविधोऽर्जुन
ज्ञातुं द्रष्टुं तत्त्वेन
प्रवेष्टुं परन्तप ॥ ५४ ॥
भक्त्या तु किंविशिष्टया इति आह — अनन्यया अपृथग्भूतया, भगवतः अन्यत्र पृथक् न कदाचिदपि या भवति सा त्वनन्या भक्तिः । सर्वैरपि करणैः वासुदेवादन्यत् न उपलभ्यते यया, सा अनन्या भक्तिः, तया भक्त्या शक्यः अहम् एवंविधः विश्वरूपप्रकारः हे अर्जुन, ज्ञातुं शास्त्रतः । न केवलं ज्ञातुं शास्त्रतः, द्रष्टुं च साक्षात्कर्तुं तत्त्वेन तत्त्वतः, प्रवेष्टुं च मोक्षं च गन्तुं परन्तप ॥ ५४ ॥

न भक्तिमात्रं तत्र हेतुः, इति तुशब्दार्थं स्फुटयति-

किमित्यादिना ।

अनन्यां भक्तिमेव व्यनक्ति-

सर्वैरिति

॥ ५४ ॥