एवं शब्दार्थम् उक्त्वा तम् अनूद्य सततयुक्ताः इति भागं विभजते-
एवमिति ।
ये भक्ताः इति अनूद्य व्याचष्टे-
अनन्येति ।
मन्दमध्यमाधिकारिणः सगुणशरणान् उक्त्वा निर्गुणनिष्ठान् उत्तमाधिकारिणो निर्दिशति -
ये चेति ।
यथा विशेषितम् - अनिर्देश्यम् सर्वत्रगम् अचिन्त्यम् कूटस्थम् इत्यादिवक्ष्यमाणविशेषणविशिष्टम् , इत्यर्थः ।
न क्षरति, अश्नुते वा, इति अक्षरम् अव्यक्तम् इत्येतत् व्याचष्टे -
निरस्तेति ।
करणागोचरत्वं व्यतिरेकद्वारा स्फोरयति -
यद्धीति ।
यथाविशेषितम् इत्युक्तं स्पष्टयति -
शिष्टैश्चेति ।
पूर्वार्धगतक्रियापदस्य अनुषङ्गम् सूचयति -
तदिति ।
सर्वे तावत् एते योगम् - समाधिम् विन्दन्ति, इति योगविदः । के पुनः अतिशयेन एषां मध्ये योगविदो योगिनः? इति पृच्छति -
के अतिशयेनेति
॥ १ ॥