किम् अनयोः योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते? किं वा साक्षात् मोक्षहेतुः? इति विकल्प्य क्रमेण उत्तरं भगवान् उक्तवान् इत्याह -
श्रीभगवानिति ।
यदि द्वितीयाः, तथाविधयोगस्य वक्ष्यमाणत्वात् न प्रष्टव्यता, इत्याह-
ये त्वक्षरेति ।
यदि आद्यः, तत्र आह -
ये त्विति ।
सर्वयोगेश्वराणां - सर्वेपां योगम् अधितिष्ठतां योगिनाम् , इत्यर्थः ।