श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
श्रीभगवान् उवाचये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः, ते तावत् तिष्ठन्तु ; तान् प्रति यत् वक्तव्यम् , तत् उपरिष्टात् वक्ष्यामःये तु इतरे
श्रीभगवान् उवाचये तु अक्षरोपासकाः सम्यग्दर्शिनः निवृत्तैषणाः, ते तावत् तिष्ठन्तु ; तान् प्रति यत् वक्तव्यम् , तत् उपरिष्टात् वक्ष्यामःये तु इतरे

किम् अनयोः योगयोर्मध्ये सुशक्यो योगो वा पृच्छ्यते? किं वा साक्षात् मोक्षहेतुः? इति विकल्प्य क्रमेण उत्तरं भगवान् उक्तवान् इत्याह -

श्रीभगवानिति ।

यदि द्वितीयाः, तथाविधयोगस्य वक्ष्यमाणत्वात् न प्रष्टव्यता, इत्याह-

ये त्वक्षरेति ।

यदि आद्यः, तत्र आह -

ये त्विति ।

सर्वयोगेश्वराणां - सर्वेपां योगम् अधितिष्ठतां योगिनाम् , इत्यर्थः ।