अर्जुन उवाच —
एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते ।
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥ १ ॥
एवम् इति अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति ‘मत्कर्मकृत्’ (भ. गी. ११ । ५५) इत्यादिना । एवं सततयुक्ताः, नैरन्तर्येण भगवत्कर्मादौ यथोक्ते अर्थे समाहिताः सन्तः प्रवृत्ता इत्यर्थः । ये भक्ताः अनन्यशरणाः सन्तः त्वां यथादर्शितं विश्वरूपं पर्युपासते ध्यायन्ति ; ये चान्येऽपि त्यक्तसर्वैषणाः संन्यस्तसर्वकर्माणः यथाविशेषितं ब्रह्म अक्षरं निरस्तसर्वोपाधित्वात् अव्यक्तम् अकरणगोचरम् । यत् हि करणगोचरं तत् व्यक्तम् उच्यते, अञ्जेः धातोः तत्कर्मकत्वात् ; इदं तु अक्षरं तद्विपरीतम् , शिष्टैश्च उच्यमानैः विशेषणैः विशिष्टम् , तत् ये चापि पर्युपासते, तेषाम् उभयेषां मध्ये के योगवित्तमाः ? के अतिशयेन योगविदः इत्यर्थः ॥ १ ॥