अशोच्यान् इत्यादिषु विभूत्यध्यायावसानेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेन अनुसन्धानम् उक्तम् इति, वृत्तं कीर्तयति -
द्वितीयेति ।
अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनम् कृतम् इत्याह -
सर्वेति ।
सर्वस्यापि प्रपञ्चस्य योगः - घटना जन्मस्थितिभङ्गप्रवेशनियमनाख्या, तत्र ऐश्वर्यम् - सामर्थ्यम् , तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्वाद्युपहितस्य भगवतो ध्यानम् तत्र तत्र पसङ्गमापाद्य, मन्दमध्यमयोः अनुग्रहार्थम् उक्तम् , इत्यर्थः ।
एकादशे वृत्तम् अनुवदति -
विश्वरूपेति ।
अध्यायान्ते भगवदुपदेशम् अनुवदति -
तच्चेति ।
अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति -
मत्कर्मकृदिति ।
यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुम् अध्यायान्तरम् अवतारयन् आदौ प्रश्नम् उत्थापयति -
अत इति ।
सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य च उक्तत्वात् इत्यर्थः ।