श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मत्कर्मकृन्मत्परमो
मद्भक्तः सङ्गवर्जितः
निर्वैरः सर्वभूतेषु
यः मामेति पाण्डव ॥ ५५ ॥
मत्कर्मकृत् मदर्थं कर्म मत्कर्म, तत् करोतीति मत्कर्मकृत्मत्परमःकरोति भृत्यः स्वामिकर्म, तु आत्मनः परमा प्रेत्य गन्तव्या गतिरिति स्वामिनं प्रतिपद्यते ; अयं तु मत्कर्मकृत् मामेव परमां गतिं प्रतिपद्यते इति मत्परमः, अहं परमः परा गतिः यस्य सोऽयं मत्परमःतथा मद्भक्तः मामेव सर्वप्रकारैः सर्वात्मना सर्वोत्साहेन भजते इति मद्भक्तःसङ्गवर्जितः धनपुत्रमित्रकलत्रबन्धुवर्गेषु सङ्गवर्जितः सङ्गः प्रीतिः स्नेहः तद्वर्जितःनिर्वैरः निर्गतवैरः सर्वभूतेषु शत्रुभावरहितः आत्मनः अत्यन्तापकारप्रवृत्तेष्वपियः ईदृशः मद्भक्तः सः माम् एति, अहमेव तस्य परा गतिः, अन्या गतिः काचित् भवतिअयं तव उपदेशः इष्टः मया उपदिष्टः हे पाण्डव इति ॥ ५५ ॥

मत्कर्मकृदित्युक्ते, मत्परमत्वम् आर्थिकमिति पुनरुक्तिः, इत्याशङ्क्य आह-

करोतीति ।

भगवानेव परमा गतिः इति निश्चयवतः तत्रैव निष्ठा सिध्यति, इत्याह-

तथेति ।

न तत्रैव सर्वप्रकारैः भजनम् , धनादिस्नेहाकृष्टत्वात् , इत्याशङ्क्य आह-

सङ्गेति ।

द्वेषपूर्वकानिष्टाचरणं वैरम् , अनपकारिषु तदभावेऽपि भवत्येव अपकारिषु इति शङ्कित्वा आह-

आत्मन इति ।

एतच्च सर्वं सङ्क्षिप्य अनुष्ठानार्थम् उक्तम् । एवम् अनुतिष्ठतो भगवत्प्राप्तिः अवश्यं भाविनी, इत्युपसंहरति-

अयमिति ।

तदेवं भगवतो विश्वरूपस्य सर्वात्मनः सर्वज्ञस्य सर्वेश्वरस्य मत्कर्मकृदित्यादिन्यायेन क्रममुक्तिफलम् अभिध्यानम् अभिवदता तत्पदवाच्योऽर्थो व्यवस्थापितः

॥ ५५ ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचिते श्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने एकादशोऽध्यायः ॥ ११ ॥