श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
द्वितीयाध्यायप्रभृतिषु विभूत्यन्तेषु अध्यायेषु परमात्मनः ब्रह्मणः अक्षरस्य विध्वस्तसर्वोपाधिविशेषस्य उपासनम् उक्तम् ; सर्वयोगैश्वर्यसर्वज्ञानशक्तिमत्सत्त्वोपाधेः ईश्वरस्य तव उपासनं तत्र तत्र उक्तम्विश्वरूपाध्याये तु ऐश्वरम् आद्यं समस्तजगदात्मरूपं विश्वरूपं त्वदीयं दर्शितम् उपासनार्थमेव त्वयातच्च दर्शयित्वा उक्तवानसि मत्कर्मकृत्’ (भ. गी. ११ । ५५) इत्यादिअतः अहम् अनयोः उभयोः पक्षयोः विशिष्टतरबुभुत्सया त्वां पृच्छामि इति अर्जुन उवाच

अशोच्यान् इत्यादिषु विभूत्यध्यायावसानेषु अध्यायेषु निरुपाधिकस्य ब्रह्मणो ज्ञेयत्वेन अनुसन्धानम् उक्तम् इति, वृत्तं कीर्तयति -

द्वितीयेति ।

अतिक्रान्तेषु तत्तदध्यायेषु सोपाधिकस्यापि ब्रह्मणो ध्येयत्वेन प्रतिपादनम् कृतम् इत्याह -

सर्वेति ।

सर्वस्यापि प्रपञ्चस्य योगः - घटना जन्मस्थितिभङ्गप्रवेशनियमनाख्या, तत्र ऐश्वर्यम् - सामर्थ्यम् , तेन सर्वत्र ज्ञेये प्रतिबन्धविधुरया ज्ञानशक्त्या विशिष्टस्य सत्वाद्युपहितस्य भगवतो ध्यानम् तत्र तत्र पसङ्गमापाद्य, मन्दमध्यमयोः अनुग्रहार्थम् उक्तम् , इत्यर्थः ।

एकादशे वृत्तम् अनुवदति -

विश्वरूपेति ।

अध्यायान्ते भगवदुपदेशम् अनुवदति -

तच्चेति ।

अतीतानन्तरश्लोकेन उक्तम् अर्थं परामृशति -

मत्कर्मकृदिति ।

यथाधिकारं तारतम्योपेतानि साधनानि नियन्तुम् अध्यायान्तरम् अवतारयन् आदौ प्रश्नम् उत्थापयति -

अत इति ।

सोपाधिकध्यानस्य निरुपाधिकज्ञानस्य च उक्तत्वात् इत्यर्थः ।