ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते ।
सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् ॥ ३ ॥
ये तु अक्षरम् अनिर्देश्यम् , अव्यक्तत्वात् अशब्दगोचर इति न निर्देष्टुं शक्यते, अतः अनिर्देश्यम् , अव्यक्तं न केनापि प्रमाणेन व्यज्यत इत्यव्यक्तं पर्युपासते परि समन्तात् उपासते । उपासनं नाम यथाशास्त्रम् उपास्यस्य अर्थस्य विषयीकरणेन सामीप्यम् उपगम्य तैलधारावत् समानप्रत्ययप्रवाहेण दीर्घकालं यत् आसनम् , तत् उपासनमाचक्षते । अक्षरस्य विशेषणमाह उपास्यस्य — सर्वत्रगं व्योमवत् व्यापि अचिन्त्यं च अव्यक्तत्वादचिन्त्यम् । यद्धि करणगोचरम् , तत् मनसापि चिन्त्यम् , तद्विपरीतत्वात् अचिन्त्यम् अक्षरम् , कूटस्थं दृश्यमानगुणम् अन्तर्दोषं वस्तु कूटम् । ‘कूटरूपम्’ ’ कूटसाक्ष्यम्’ इत्यादौ कूटशब्दः प्रसिद्धः लोके । तथा च अविद्याद्यनेकसंसारबीजम् अन्तर्दोषवत् मायाव्याकृतादिशब्दवाच्यतया ‘मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्’ (श्वे. उ. ४ । १०) ‘मम माया दुरत्यया’ (भ. गी. ७ । १४) इत्यादौ प्रसिद्धं यत् तत् कूटम् , तस्मिन् कूटे स्थितं कूटस्थं तदध्यक्षतया । अथवा, राशिरिव स्थितं कूटस्थम् । अत एव अचलम् । यस्मात् अचलम् , तस्मात् ध्रुवम् , नित्यमित्यर्थः ॥ ३ ॥