श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
संनियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः
ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ॥ ४ ॥
सन्नियम्य सम्यक् नियम्य उपसंहृत्य इन्द्रियग्रामम् इन्द्रियसमुदायं सर्वत्र सर्वस्मिन् काले समबुद्धयः समा तुल्या बुद्धिः येषाम् इष्टानिष्टप्राप्तौ ते समबुद्धयःते ये एवंविधाः ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः तु तेषां वक्तव्यं किञ्चित्मां ते प्राप्नुवन्तिइति ; ज्ञानी त्वात्मैव मे मतम्’ (भ. गी. ७ । १८) इति हि उक्तम् हि भगवत्स्वरूपाणां सतां युक्ततमत्वमयुक्ततमत्वं वा वाच्यम् ॥ ४ ॥

कथम् अक्षरम् उपासते? तदुपासने वा किं स्यात् ? इति तदाह -

सन्नियम्येति ।

तुल्या हर्षविषादरागद्धेषादिरहिता सम्यग्ज्ञानेन अज्ञानस्य अपनीतत्वात् ।

क्रमपरम्परापेक्षयोः असम्भवं विवक्षित्वा, आह -

ते य इति ।

सर्वेभ्यो भूतेभ्यो हिते रताः - सर्वेभ्यो भूतेभ्यो हितमेव चिन्तयन्तः, तदेव आचरन्ति ।

ज्ञानवतां यथाज्ञानं भगवत्प्राप्तेः अर्थसिद्धत्वात् अनुवादमात्रम् , इत्याह -

न त्विति ।

ज्ञानिनो भगवत्प्राप्तिः सिद्धा एव, इत्यत्र प्रमाणम् आह -

ज्ञानी त्विति ।

ज्ञानवतां भगवत्प्राप्तौ त एव युक्ततमाः वक्तव्याः, कथं सगुणब्रह्मोपासकान् युक्ततमान् उक्तवान् असि? इति आशङ्क्य, आह -

न हीति

॥ ४ ॥