अक्षरोपासनस्य दुष्करत्वात् , उपासनान्तरस्य सुकरत्वात् , इत्यभिप्रेत्य आह -
क्लेश इति ।
अधिक एव इतरेभ्यो द्वैतदर्शिभ्यः कामिभ्यः, इति शेषः ।
तेषां क्लेशस्य अधिकतरत्वे हेतुम् मत्वा, विशिनष्टि -
देहेति ।
अव्यक्तम् - अत्यन्तसूक्ष्मम् , निर्विशेषम् अक्षरम् , तस्मिन् आसक्तम् - अभिनिविष्टं चेतो येषां, तेषाम् - इति यावत् ।
अक्षरोपासकानां क्लेशस्य अधिकतरत्वे भगवानेव हेतुम् आह -
अव्यक्तेति ।
दुःखम् - दुःखेन, कृच्छ्रेण इति यावत् ।
अतः देहाभिमानत्यागात् , इत्यर्थः । ते कथं वर्तन्ते? तत्र आह -
अक्षरेति
॥ ५ ॥