श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः
अनन्येनैव योगेन मां ध्यायन्त उपासते ॥ ६ ॥
ये तु सर्वाणि कर्माणि मयि ईश्वरे संन्यस्य मत्पराः अहं परः येषां ते मत्पराः सन्तः अनन्येनैव अविद्यमानम् अन्यत् आलम्बनं विश्वरूपं देवम् आत्मानं मुक्त्वा यस्य सः अनन्यः तेन अनन्येनैव ; केन ? योगेन समाधिना मां ध्यायन्तः चिन्तयन्तः उपासते ॥ ६ ॥

यदि अक्षरोपासकाः माम् एव आप्नुवन्ति इति विशिष्यन्ते, तत् किं सगुणोपासकाः त्वां न आप्नुवन्ति? न, तेषामपि क्रमेण मत्प्राप्तेः इत्याह -

ये त्विति ।

तुशब्द शङ्कानिवृत्त्यर्थः

॥ ६ ॥