श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
मय्येव मन आधत्स्व मयि बुद्धिं निवेशय
निवसिष्यसि मय्येव अत ऊर्ध्वं संशयः ॥ ८ ॥
मयि एव विश्वरूपे ईश्वरे मनः सङ्कल्पविकल्पात्मकं आधत्स्व स्थापयमयि एव अध्यवसायं कुर्वतीं बुद्धिम् आधत्स्व निवेशयततः ते किं स्यात् इति शृणुनिवसिष्यसि निवत्स्यसि निश्चयेन मदात्मना मयि निवासं करिष्यसि एव अतः शरीरपातात् ऊर्ध्वम् संशयः संशयः अत्र कर्तव्यः ॥ ८ ॥

मनोबुद्ध्योः भगवति अवस्थापने प्रश्नपूर्वकं फलम् आह-

तत इति ।

भगवन्निष्ठस्य तत्प्राप्तौ प्रतिबन्धाभावं सूचयति-

संशयोऽत्रेति

॥ ८ ॥