श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अथ चित्तं समाधातुं
शक्नोषि मयि स्थिरम्
अभ्यासयोगेन ततो
मामिच्छाप्तुं धनञ्जय ॥ ९ ॥
अथ एवं यथा अवोचं तथा मयि चित्तं समाधातुं स्थापयितुं स्थिरम् अचलं शक्नोषि चेत् , ततः पश्चात् अभ्यासयोगेन, चित्तस्य एकस्मिन् आलम्बने सर्वतः समाहृत्य पुनः पुनः स्थापनम् अभ्यासः, तत्पूर्वको योगः समाधानलक्षणः तेन अभ्यासयोगेन मां विश्वरूपम् इच्छ प्रार्थयस्व आप्तुं प्राप्तुं हे धनञ्जय ॥ ९ ॥

मतप्रदर्शनपूर्वकं भगवत्प्राप्तौ उपायान्तरम् आह -

अथेत्यादिना ।

एकम् आलम्बनं - स्थूलं प्रतिमादि । समाधानं ततः अभ्यन्तरे विश्वरूपे चित्तैकाग्र्यम्

॥ ९ ॥