द्वैताभिनिवेशात् अभ्यासाधीने योगेऽपि सामर्थ्याभावे पुनः, उपायान्तरम् आह -
अभ्यासेऽपीति ।
अभ्यासयोगेन विना, भगवदर्थं कर्माणि कुर्वाणस्य किं स्यात् ? इति आशङ्क्य आह -
अभ्यासेनेति ।
सिद्धिः - ब्रह्मभावः । अपिः उक्तव्यवधिसूचनार्थः
॥ १० ॥