श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते ।
ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ॥ १२ ॥
श्रेयः हि प्रशस्यतरं ज्ञानम् । कस्मात् ? विवेकपूर्वकात् अभ्यासात् । तस्मादपि ज्ञानात् ज्ञानपूर्वकं ध्यानं विशिष्यते । ज्ञानवतो ध्यानात् अपि कर्मफलत्यागः, ‘विशिष्यते’ इति अनुषज्यते । एवं कर्मफलत्यागात् पूर्वविशेषणवतः शान्तिः उपशमः सहेतुकस्य संसारस्य अनन्तरमेव स्यात् , न तु कालान्तरम् अपेक्षते ॥