श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अद्वेष्टा सर्वभूतानां मैत्रः करुण एव
निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ॥ १३ ॥
अद्वेष्टा सर्वभूतानां न द्वेष्टा, आत्मनः दुःखहेतुमपि न किञ्चित् द्वेष्टि, सर्वाणि भूतानि आत्मत्वेन हि पश्यति । मैत्रः मित्रभावः मैत्री मित्रतया वर्तते इति मैत्रः । करुणः एव च, करुणा कृपा दुःखितेषु दया, तद्वान् करुणः, सर्वभूताभयप्रदः, संन्यासी इत्यर्थः । निर्ममः ममप्रत्ययवर्जितः । निरहङ्कारः निर्गताहंप्रत्ययः । समदुःखसुखः समे दुःखसुखे द्वेषरागयोः अप्रवर्तके यस्य सः समदुःखसुखः । क्षमी क्षमावान् , आक्रुष्टः अभिहतो वा अविक्रियः एव आस्ते ॥ १३ ॥

सर्वेषां भूतानां मध्ये यो दुःखहेतुः, तं विद्वानपि द्वेष्ट्येव, इत्याशङ्क्य आह –

आत्मनः इति ।

तत्र हेतुः -

सर्वाणीति ।

‘सर्वभूतानाम् ‘ इति उभयतः सम्बध्यते । मम - प्रत्ययर्जितः, देहेऽपि इति शेषः ।

वृत्तस्वाध्यायकृताहङ्कारात् निष्क्रान्तत्वम् आह -

निर्गतेति

॥ १३ ॥