श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः मे प्रियः ॥ १४ ॥
सन्तुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे च उत्पन्नालंप्रत्ययः । तथा गुणवल्लाभे विपर्यये च सन्तुष्टः । सततं योगी समाहितचित्तः । यतात्मा संयतस्वभावः । दृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये स दृढनिश्चयः । मय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते मय्येव अर्पिते स्थापिते यस्य संन्यासिनः सः मय्यर्पितमनोबुद्धिः । यः ईदृशः मद्भक्तः सः मे प्रियः । ‘प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः’ (भ. गी. ७ । १७) इति सप्तमे अध्याये सूचितम् , तत् इह प्रपञ्च्यते ॥ १४ ॥

अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि  आह -

सन्तुष्ट इति ।

सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् ।

ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह -

प्रियो हीति ।

किमर्थं तर्हि पुनरुच्यते? तत्र आह-

तदिहेति

॥ १४ ॥