सम्प्रति ‘अद्वेष्टा’ इत्याद्यवतारयितुं वृत्तं कीर्तयति -
अत्र चेति ।
आत्यन्तिकोऽभेदः, न तर्हि ईश्वरे मनःसमाधानरूपो योगः अत्यन्ताभेदे ध्या भावात् , न च अत्यन्ताभेदे कर्मानुष्ठानं, तत्फलत्यागो वा, परस्परं तदयागात् , इत्यर्थः भगवदुक्तिसामर्थ्यादपि कर्मयोगादि न अभेददृष्टिमतो भवति, इत्याह -
अथेति ।
अक्षरोपासकस्य कर्मयोगायोगवत् कर्मयोगिनोऽक्षरोपासनानुपपत्तिरपि दर्शिता, इत्याह -
तथेति ।
अक्षरोपासकाः सम्यग्धीनिष्ठाः यथाज्ञानं भगवन्तमेव आप्नुवन्ति । न तथा कर्मिणः साक्षात् तदाप्तौ उचिताः । तथा च कर्मिणो न अक्षरोपासनसिद्धिः, इत्यर्थः ।
इतश्च अक्षरोपासनं कर्मानुष्ठानं च न एकत्र युक्तम् , इत्याह -
अक्षरेति ।
ननु अक्षरोपासकव अन्येषामपि ईश्वरात्मत्वाविशेषात् कतुः तदधीनत्वम् ? तत्र आह -
यदीति ।
कर्मयोगस्य अक्षरोपास्तेश्च युगपत् एकत्र अयोगे हेत्वन्तरम् आह -
यस्माच्चेति ।
‘कुरु कर्मैव’ इत्यादौ इति शेषः ।
किं च अक्षरोपासको वाक्यात् ईश्वरम् आत्मानं वेति । नासौ क्रियायां गुणत्वेन कर्तृत्वम् अनुभवति । गुणत्वेश्वरत्वयोः एकत्र व्याघातात् , अतोऽपि न अक्षरोपासनं कर्मानुष्ठानं च एकत्र युक्तम् , इत्याह -
न चेति ।
अक्षरोपास्तिकर्मयोगयोः एकत्र पर्यायायोगे फलितम् आह-
तस्मादिति ।
अज्ञानां कर्मिणां वक्ष्यमाणधर्मजातस्य साकल्येन अयोगात् अक्षरनिष्ठानामिव इदम् उच्यते, अविरुद्धांशस्य तु सर्वार्थत्वम् इष्टमेव, इत्यर्थः ।