श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः
मय्यर्पितमनोबुद्धिर्यो मद्भक्तः मे प्रियः ॥ १४ ॥
सन्तुष्टः सततं नित्यं देहस्थितिकारणस्य लाभे अलाभे उत्पन्नालंप्रत्ययःतथा गुणवल्लाभे विपर्यये सन्तुष्टःसततं योगी समाहितचित्तःयतात्मा संयतस्वभावःदृढनिश्चयः दृढः स्थिरः निश्चयः अध्यवसायः यस्य आत्मतत्त्वविषये दृढनिश्चयःमय्यर्पितमनोबुद्धिः सङ्कल्पविकल्पात्मकं मनः, अध्यवसायलक्षणा बुद्धिः, ते मय्येव अर्पिते स्थापिते यस्य संन्यासिनः सः मय्यर्पितमनोबुद्धिःयः ईदृशः मद्भक्तः सः मे प्रियःप्रियो हि ज्ञानिनोऽत्यर्थमहं मम प्रियः’ (भ. गी. ७ । १७) इति सप्तमे अध्याये सूचितम् , तत् इह प्रपञ्च्यते ॥ १४ ॥

अक्षरोपासकस्य ज्ञानवतो विशेषणान्तराणि  आह -

सन्तुष्ट इति ।

सततम् इति सर्वत्र सम्बध्यते । कार्यकरणसङ्घातः स्वभावशब्दार्थः । स्थिरत्वं कृतर्कादिना अनभिभवनीयत्वम् । मद्भक्तः - मद्भजनपरः ज्ञानवान् इति यावत् ।

ज्ञानवतो भगवत्प्रियत्वे प्रमाणम् आह -

प्रियो हीति ।

किमर्थं तर्हि पुनरुच्यते? तत्र आह-

तदिहेति

॥ १४ ॥