श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
यस्मान्नोद्विजते लोको लोकान्नोद्विजते यः
हर्षामर्षभयोद्वेगैर्मुक्तो यः मे प्रियः ॥ १५ ॥
यस्मात् संन्यासिनः उद्विजते उद्वेगं गच्छति सन्तप्यते सङ्क्षुभ्यति लोकः, तथा लोकात् उद्विजते यः, हर्षामर्षभयोद्वेगैः हर्षश्च अमर्षश्च भयं उद्वेगश्च तैः हर्षामर्षभयोद्वेगैः मुक्तः ; हर्षः प्रियलाभे अन्तःकरणस्य उत्कर्षः रोमाञ्चनाश्रुपातादिलिङ्गः, अमर्षः असहिष्णुता, भयं त्रासः, उद्वेगः उद्विग्नता, तैः मुक्तः यः मे प्रियः ॥ १५ ॥

उद्वेगादिराहित्यमपि ज्ञानवतो विशेषणम् , इत्याह -

यस्मादिति ।

न केवलम् उद्वेगं प्रति अपादानत्वमेव संन्यासिनोऽनुपपन्नम् , किं तु तत्कर्तृत्वमपि, इत्याह -

तथेति ।

असहिष्णुता, परकीयप्रकर्षस्य इति शेषः । त्रासः तस्करादिदर्शनाधीनः उद्धिग्नत्वम् अचेतनात् , चेतनाधीनस्य लोकादिति गतत्वात् , इति यावत्

॥ १५ ॥