श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
अनपेक्षः शुचिर्दक्ष
उदासीनो गतव्यथः
सर्वारम्भपरित्यागी
यो मद्भक्तः मे प्रियः ॥ १६ ॥
देहेन्द्रियविषयसम्बन्धादिषु अपेक्षाविषयेषु अनपेक्षः निःस्पृहःशुचिः बाह्येन आभ्यन्तरेण शौचेन सम्पन्नःदक्षः प्रत्युत्पन्नेषु कार्येषु सद्यः यथावत् प्रतिपत्तुं समर्थःउदासीनः कस्यचित् मित्रादेः पक्षं भजते यः, सः उदासीनः यतिःगतव्यथः गतभयःसर्वारम्भपरित्यागी आरभ्यन्त इति आरम्भाः इहामुत्रफलभोगार्थानि कामहेतूनि कर्माणि सर्वारम्भाः, तान् परित्यक्तुं शीलम् अस्येति सर्वारम्भपरित्यागी यः मद्भक्तः सः मे प्रियः ॥ १६ ॥

निरपेक्षत्वादिकमपि ज्ञानिनो विशेषणम् इत्याह -

अनपेक्ष इति ।

आदिपदम् अपेक्षणीयसर्वसङ्ग्रहार्थम् , प्रतिपत्तव्येषु प्रतिपत्तुं, कर्तव्येषु कर्तुं च इत्यर्थः ।

परैः ताडितस्यापि गता व्यथा - भयम् अस्य, इति व्युत्पत्तिम् आश्रित्य आह -

गतेति ।

न च क्षमी इत्यनेनैव पौनरुक्त्यम् ; प्रत्युत्पन्नायामपि व्यथायाम् अपकर्तृषु अनपकर्तृत्वं क्षमित्वम् , इति अभ्युपगमात्

॥ १६ ॥