श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
ये तु धर्म्यामृतमिदं
यथोक्तं पर्युपासते
श्रद्दधाना मत्परमा
भक्तास्तेऽतीव मे प्रियाः ॥ २० ॥
ये तु संन्यासिनः धर्म्यामृतं धर्मादनपेतं धर्म्यं तत् अमृतं तत् , अमृतत्वहेतुत्वात् , इदं यथोक्तम् अद्वेष्टा सर्वभूतानाम्’ (भ. गी. १२ । १३) इत्यादिना पर्युपासते अनुतिष्ठन्ति श्रद्दधानाः सन्तः मत्परमाः यथोक्तः अहं अक्षरात्मा परमः निरतिशया गतिः येषां ते मत्परमाः, मद्भक्ताः उत्तमां परमार्थज्ञानलक्षणां भक्तिमाश्रिताः, ते अतीव मे प्रियाःप्रियो हि ज्ञानिनोऽत्यर्थम्’ (भ. गी. ७ । १७) इति यत् सूचितं तत् व्याख्याय इह उपसंहृतम्भक्तास्तेऽतीव मे प्रियाःइतियस्मात् धर्म्यामृतमिदं यथोक्तमनुतिष्ठन् भगवतः विष्णोः परमेश्वरस्य अतीव प्रियः भवति, तस्मात् इदं धर्म्यामृतं मुमुक्षुणा यत्नतः अनुष्ठेयं विष्णोः प्रियं परं धाम जिगमिषुणा इति वाक्यार्थः ॥ २० ॥

चतुर्थपारदस्य तात्पर्यम् आह -

प्रियो हीति ।

यद्यपि यथोक्तं धर्मजातं ज्ञानवतो लक्षणम् , तथापि जिज्ञासूनां ज्ञानोपायत्वेन यत्नात् अनुष्ठेयम् , इति वाक्यार्थम् उपसंहरति

यस्मादिति ।

तदेवं सोपाधिकाभिध्यानपरिपाकात् निरुपाधिकम् अनुसन्दधानस्य ‘अद्वेष्टा सर्वभूतानाम् ‘ इत्यादिधर्मविशिष्टस्य मुख्यस्य अधिकारिणः श्रवणाद्यावर्तयतः तत्वसाक्षात्कारसम्भवात् , ततो मुक्त्युपपत्तेः, तद्धेतुवाक्यार्थधोविष(योऽन्व) ययोग्यः तत्पदार्थो अनुसन्धेयः, इति सिद्धम्

॥ २० ॥

इति श्रीमत्परमहंस - परिव्रजकाचार्य - श्रीमच्छुद्धानन्दपूज्यपादशिष्यानन्दज्ञान - विरचितेश्रीमद्भगवद्गीताशाङ्करभाष्यव्याख्याने द्वादशोऽध्यायः ॥ १२ ॥