प्रथममध्यमयोः षट्कयोः तत्त्वंपदार्थौ उक्तौ । अन्तिमस्तु षट्कः वाक्यार्थनिष्ठः सम्यग्धीप्रधानः अधुना आरभ्यते । तत्र क्षेत्राध्यायम् अन्तिमषट्काद्यम् अवतितारयिषुः व्यवहितं वृत्तं कीर्तयति-
सप्तम इति ।
प्रकृतिद्वयस्य स्वातन्त्र्यं वारयति -
ईश्वरस्येति ।
भूमिरित्यादिना उक्ता सत्वादिरूपा प्रकृतिः अपरा इत्यत्र हेतुमाह -
संसारेति ।
इतस्त्वन्या इत्यादिना उक्तां प्रकृतिम् अनुक्रामति -
परा चेति ।
परत्वे हेतुं मूचयनि -
ईश्वरात्मिकेति ।
किमर्थम् ईश्वरस्य प्रकृतिद्वयम् ? इत्याशङ्क्य, कारणत्वार्थम् इत्याह -
याभ्यामिति ।
वृत्तम् अनूद्य, वर्तिष्यमाणाध्यायारम्भप्रकारम् आह -
तत्रेति ।
व्यवहितेन मवन्धम् उक्त्वा, अव्यवहितेन तं विवक्षुः अव्यवहितम् अनुवदति -
अतीतेति ।
निष्ठा उक्ता इति सम्बन्धः । निष्ठामेव व्याचष्टे -
यथेति ।
वर्तन्ते - धर्मजातम् अनुतिष्ठन्ति, तथा पूर्वोक्तेन प्रकारेण सर्वमुक्तम् इति योजना ।
अव्यवहितमेव अनूद्य तेन उत्तरस्य सम्बन्धं सङ्गिरते -
केनेति ।
तत्वज्ञानोक्तेः उक्तार्थेन समुच्चयार्थः चकारः ।
जीवानां सुखदुःखादि भेदभाजां प्रतिक्षेत्रं भिन्नानां न अक्षरेण ऐक्यम् , इत्याशङ्क्य, संसारस्य आत्मधर्मत्वं निराकृत्य सङ्घातनिष्ठत्वं वक्तुं, सङ्घातोत्पत्तिप्रकारम् आह -
प्रकृतिश्चेति ।
भोगश्च अपवर्गश्च अर्थौ, तयोरेव कर्तव्यतया, इति यावत् ।
ननु अनन्तरश्लाके शरीरनिर्देशात् तस्य उत्पत्तिः वक्तव्या, किमिति सङ्घातस्य उच्यते? तत्राह -
सोऽयमिति ।
उक्तेऽर्थे भगवद्वचनम् अवतारयति -
तदेतदिति ।