श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
क्षेत्रज्ञं यथोक्तलक्षणं चापि मां परमेश्वरम् असंसारिणं विद्धि जानीहिसर्वक्षेत्रेषु यः क्षेत्रज्ञः ब्रह्मादिस्तम्बपर्यन्तानेकक्षेत्रोपाधिप्रविभक्तः, तं निरस्तसर्वोपाधिभेदं सदसदादिशब्दप्रत्ययागोचरं विद्धि इति अभिप्रायःहे भारत, यस्मात् क्षेत्रक्षेत्रज्ञेश्वरयाथात्म्यव्यतिरेकेण ज्ञानगोचरम् अन्यत् अवशिष्टम् अस्ति, तस्मात् क्षेत्रक्षेत्रज्ञयोः ज्ञेयभूतयोः यत् ज्ञानं क्षेत्रक्षेत्रज्ञौ येन ज्ञानेन विषयीक्रियेते, तत् ज्ञानं सम्यग्ज्ञानम् इति मतम् अभिप्रायः मम ईश्वरस्य विष्णोः

यः सर्वक्षेत्रेषु एकः क्षेत्रज्ञः, तं मामेव विद्धि, इति सम्बन्धं सूचयति -

सर्वेति ।

तत्तत्क्षेत्रोपाधिकभेदभाजः तत्तच्छब्दधीगोचरस्य कथं तद्विपरीतब्रह्मत्वधीः? इत्याशङ्क्य, आह -

ब्रह्मादीति ।

उत्तरार्धं विभजते -

यस्मादिति ।

तदेव विशिनष्टि -

क्षेत्रेति ।