न च भेदविषयत्वात् न सम्यग्ज्ञानं तद् , इति युक्तम् , तस्य विवेकज्ञानस्य वाक्यार्थज्ञानद्वारा मोक्षौपयिकत्वेन सम्यक्त्वसिद्धेः इति भावः । जीवेश्वरयोः एकत्वमुक्तम् आक्षिपति -
नन्विति ।
जीवेश्वरयोः एकत्वे, जीवस्य ईश्वरे वा, तस्य जीवे वा, अन्तर्भावः? नाद्यः, जीवस्य परस्मात् अन्यत्वाभावे संसारस्य निरालम्बनत्वानुपपत्त्या परस्यैव तदाश्रयत्वप्रसङ्गात् इत्यर्थः ।
‘अनश्नन्नन्यो अभिचाकशीति’ (श्वे. उ. ४-६) इति श्रुतेः, न तस्य संसारिता, इत्याशङ्क्य, द्वितीयं दूषयति -
ईश्वरेति ।
जीवे चेत् ईश्वरः अन्तर्भवति, तदापि ततः अन्यसंसार्यभावात् तस्य च संसारः अनिंष्टः, इति संसारः जगति अस्तङ्गच्छेत् , इत्यर्थः ।
प्रसङ्गद्वयस्य इष्टत्वं निराचष्टे-
तच्चेति ।
संसाराभावे ‘तयोरन्यः पिप्पलं स्वाद्वत्ति’ (श्वे. उ. ४-६) इत्यादिबन्धशास्रस्य तद्धेतु कर्मविषयकर्मकाण्डस्य च आनर्थक्यम् , ईश्वराश्रिते च संसारे तदभाक्तृत्वश्रुतेः ज्ञानकाण्डस्य मोक्षतद्धेतुज्ञानार्थस्य आनर्थक्यम् , अतो न प्रसङ्गयोः इष्टता इत्यर्थः ।
संसाराभावप्रसङ्गस्य अनिष्टत्वे हेत्वन्तरम् आह -
प्रत्यक्षादीति ।
तत्र प्रत्यक्षविरोधं प्रकटयति -
प्रत्यक्षेणेति ।
आदिशब्दोपात्तम् अनुमानविरोधम् आह -
जगदिति ।
विमतं विचित्रहेतुकम् , विचित्रकार्यत्वात् , प्रासादादिवत् , इत्यर्थः ।
प्रत्यक्षानुमानागमविरोधात् अयुक्तम् ऐक्यम् इति उपसंहरति-
सर्वमिति ।