श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
; ज्ञानाज्ञानयोः अन्यत्वेनोपपत्तेःदूरमेते विपरीते विषूची अविद्या या विद्येति ज्ञाता’ (क. उ. १ । २ । ४)तथा तयोः विद्याविद्याविषययोः फलभेदोऽपि विरुद्धः निर्दिष्टःश्रेयश्च प्रेयश्च’ (क. उ. १ । २ । २) इति ; विद्याविषयः श्रेयः, प्रेयस्तु अविद्याकार्यम् इतितथा व्यासःद्वाविमावथ पन्थानौ’ (मो. ध. २४१ । ६) इत्यादि, ‘इमौ द्वावेव पन्थानौइत्यादि इह द्वे निष्ठे उक्तेअविद्या सह कार्येण हातव्या इति श्रुतिस्मृतिन्यायेभ्यः अवगम्यतेश्रुतयः तावत्इह चेदवेदीदथ सत्यमस्ति चेदिहावेदीन्महती विनष्टिः’ (के. उ. २ । ५) तमेवं विद्वानमृत इह भवतिनान्यः पन्था विद्यतेऽयनाय’ (तै. आ. ३ । १३) विद्वान्न बिभेति कुतश्चन’ (तै. उ. २ । ९ । १)अविदुषस्तुअथ तस्य भयं भवति’ (तै. उ. २ । ७ । १), अविद्यायामन्तरे वर्तमानाः’ (क. उ. १ । २ । ५), ‘ब्रह्म वेद ब्रह्मैव भवतिअन्योऽसावन्योऽहमस्मीति वेद यथा पशुरेवं देवानाम्’ (बृ. उ. १ । ४ । १०) आत्मवित् यः इदं सर्वं भवति’ (बृ. उ. १ । ४ । १०) ; यदा चर्मवत्’ (श्वे. उ. ६ । २०) इत्याद्याः सहस्रशःस्मृतयश्चअज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः’ (भ. गी. ५ । १५) इहै तैर्जितः सर्गो येषां साम्ये स्थितं मनः’ (भ. गी. ५ । १९) समं पश्यन् हि सर्वत्र’ (भ. गी. १३ । २८) इत्याद्याःन्यायतश्चसर्पान्कुशाग्राणि तथोदपानं ज्ञात्वा मनुष्याः परिवर्जयन्तिअज्ञानतस्तत्र पतन्ति केचिज्ज्ञाने फलं पश्य यथाविशिष्टम्’ (मो. ध. २०१ । १७)तथा देहादिषु आत्मबुद्धिः अविद्वान् रागद्वेषादिप्रयुक्तः धर्माधर्मानुष्ठानकृत् जायते म्रियते इति अवगम्यते ; देहादिव्यतिरिक्तात्मदर्शिनः रागद्वेषादिप्रहाणापेक्षधर्माधर्मप्रवृत्त्युपशमात् मुच्यन्ते इति केनचित् प्रत्याख्यातुं शक्यं न्यायतःतत्र एवं सति, क्षेत्रज्ञस्य ईश्वरस्यैव सतः अविद्याकृतोपाधिभेदतः संसारित्वमिव भवति, यथा देहाद्यात्मत्वमात्मनःसर्वजन्तूनां हि प्रसिद्धः देहादिषु अनात्मसु आत्मभावः निश्चितः अविद्याकृतः, यथा स्थाणौ पुरुषनिश्चयः ; एतावता पुरुषधर्मः स्थाणोः भवति, स्थाणुधर्मो वा पुरुषस्य, तथा चैतन्यधर्मो देहस्य, देहधर्मो वा चेतनस्य सुखदुःखमोहात्मकत्वादिः आत्मनः युक्तः ; अविद्याकृतत्वाविशेषात् , जरामृत्युवत्

ऐक्येऽपि संसारित्वम् अविद्यातः, विद्यातः असंसारित्वम् , इति विभागात् न अनुपपत्तिः, इति उत्तरम् आह -

नेत्यादिना ।

तयोः स्वरूपतः विलक्षणत्वे श्रुतिम् आह -

दूरमिति ।

अविद्या, या च विद्या इति प्रसिद्धे, एते विद्याविद्ये दूरं विपरीते, अत्यन्तविरुद्धे इत्यर्थः । विषूची नानागती भिन्नफले इत्यर्थः ।

स्वरूपतो विरोधवत् फलतोऽपि सोऽस्ति इत्याह -

तथेति ।

फलभेदोक्तिमेव व्यनक्ति -

विद्येति ।

तयोः द्विधा विलक्षणत्वे वेदव्यासस्यापि सम्मतिम् आह -

तथा चेति ।

उक्ते अर्थे भगवतोपि सम्मतिम् उदाहरति -

इहचेति ।

द्वयोरपि निष्ठयोः तुल्यं उपादेयत्वम् इति शङ्कां शातयति -

अविद्या चेति ।

अविद्या कार्या हातव्या इत्यत्र श्रुतीः उदाहरति -

श्रुतयस्तावदिति ।

इहेति - जीवदवस्था उच्यते, चेच्छब्दः विद्योदयदौर्लभ्यद्योती, अवेदीत् - अहं ब्रह्म इति विदितवान् इत्यर्थः ।

अथ - विद्यानन्तरमेव, सत्यम् - अवितथम् , पुनरावृत्तिवर्जितं कैवल्यं स्यात् इत्याह -

अथेति ।

अविद्यविषयेऽपि श्रुतिम् आह -

न चेदिति ।

जन्ममरणादिरूपा संसृतिः ‘वनष्टिः, तस्य महत्त्वम् - सम्यग्ज्ञानं विना निवर्तयितुम् अश्क्यत्वम् । विद्याविषये श्रुत्यन्तरम् आह -

तमेवमिति ।

परमात्मानं प्रत्यक्त्वेन यः साक्षात्कृतवान् , स देही जीवन्नेव मुक्तो भवति इत्यर्थः ।

विद्यां विनापि हेत्वन्तरतः मुक्तिम् आशङ्क्य, आह -

नेति ।

भयहेतुम् अविद्यां निराकर्वती, तज्जं भयमपि निरस्यति विद्या, इत्यत्र वाक्यान्तरमाह -

विद्वानिति ।

अविद्याविषये वाक्यान्तरमाह -

अविदुष इति ।

प्रतीचि एकरसे स्वल्पमपि भेदं मन्यमानस्य भेददृष्ट्यनन्तरमेव संसारध्रौव्यम् , इत्यर्थः ।

तत्रैव श्रुत्यन्तरम् आह -

अविद्यायामिति ।

तन्मध्ये तत्परवशतया स्थिताः तत्त्वम् अजानन्तः देहाद्यभिमानवन्तः मूढाः संसरन्ति, इत्यर्थः ।

विद्याविषये श्रुत्यन्तरम् आह -

ब्रह्मेति ।

अविद्याविषये श्रुत्यन्तरम् आह -

अन्योसाविति ।

भेददृष्टिम् अनूद्य तन्निदानं अविद्या, इत्याह -

नेति ।

स च मनुष्याणां पशुवत् देवादीनां प्रेष्यतां प्राप्नोति, इत्याह -

यथेति ।

विद्याविषये वाक्यान्तरम् आह -

आत्मविदिति ।

इदं सर्वं प्रत्यग्भूतं पूर्ण व्रह्म, इत्यर्थः ।

 ‘ज्ञानादेव तु कैवल्यम् ‘ इत्यत्र श्रृत्यन्तरम् आह -

यदेति ।

न खलु आकाशं चर्मवत् मानवो वेष्टयितुम् ईष्टे, तथा परमात्मानां प्रत्यक्त्वेन अननुभूय न मुच्यत इत्यर्थः ।

आदिशब्देन अनुक्ता विद्याविद्याफलभेदार्थाः श्रुतयो गृह्यन्ते । तासां भूयस्त्वेन प्रामाण्यं सूचयति -

सहस्रश इति ।

विद्याविद्याविषये स्मृतीः उदाहरति-

स्मृतयश्चेति ।

तत्र अविद्याविषयं वाक्यम् आह -

अज्ञानेनेति ।

विद्याविषयं वाक्यद्वयं दर्शयति -

इहेत्यादिना ।

विद्याफलम् अनर्थध्वस्तिः, अविद्याफलम् अनर्थाप्तिः, इत्येतद् अन्वयव्यतिरेकाख्यन्यायादपि सिध्यति, इत्याह -

न्यायतश्चेति ।

तत्रैव पुराणसम्मतिम् आह-

सर्पानिति ।

उदपानाम् - कूपम् , यथा आत्मज्ञाने विशिष्टं फलं स्यात् तथा पश्य, इति योजना ।

न्यायतश्च इति अन्वयव्यतिरेकाख्यं न्यायम् उक्तं विवृणोति -

तथा चेति ।

तत्र आदौ अन्वयम् आचष्टे-

देहादिष्विति ।

अनाद्यानिर्वाच्याविद्यावृतः चिदात्मा देहादौ अनात्मनि आत्मबुद्धिम् आदधाति, तद्युक्तः रागादिना प्रेर्यते, तत्प्रयुक्तश्च कर्म अनुतिष्ठति, तत्कर्ता च यथाकर्म नूतनं देहम् आदत्ते, पूरातनं त्यजति ; इत्येवम् अविद्यावत्वे संसारित्वं सिद्धम् , इत्यर्थः ।

व्यतिरेकम् इदानीं दर्शयति -

देहादीति ।

श्रुतियुक्तिभ्यां भेदे ज्ञाते रागादिध्वस्त्या कर्मोपरमात् अशेषसंसारासिद्धिः, इति अविद्याराहित्ये बन्धध्वस्तिः, इत्यर्थः ।

उक्तान्वयादेः अन्यथासिद्धिं शिथिलयति -

इति नेति ।

उक्तम् अन्वयादिवादिना, केनचिदपि न्यायतः न शक्यं प्रत्याख्यातुम् तदन्यथासिद्धिसाधकाभावात् , इत्यर्थः ।

अन्वयादेः अनन्यथासिद्धत्वे चोद्यमपि प्राचीनं प्रतिनीतम् , इत्याह -

तत्रेति ।

ज्ञानाज्ञानयोः उक्तन्यायेन  स्वरूपभेदे कार्यभेदे च स्वारस्येन परापरयोः एक्येऽपि बुद्ध्याद्युपाधिभेदात् आविद्यकम् आत्मनः संसारित्वम् आभासरूपं प्रातिभासिकं सिध्यति, इत्यर्थः ।

आत्मनो ब्रह्मता स्वतश्चेद् , अहमिति आत्मभावेन ब्रह्मतापि भायात् , इत्याशह्क्य, आह -

यथेति ।

देहाद्यतिरिक्तत्वस्य आत्मनः वैदिकपक्षे स्वतस्त्वेऽपि, तस्मिन् अहमिति भात्येव, तदतिरिक्तत्वं न भाति, किन्तु अविद्यातः देहाद्यात्मत्वमेव विपरीतं भासते ; तथा आत्मनो ब्रह्मत्वे स्वाभाविकत्वेऽपि तस्मिन् भात्येव, ब्रह्मत्वं न भाति, अविद्यातः अब्रह्मत्वमेव तु अस्य भास्यति, इत्यर्थः ।

आत्मनः देहाद्यात्मत्वम् आविद्यं भाति इत्युक्तम् अनुभवेन स्पष्टयति -

सर्वेति ।

अतस्मिन् तद्बुद्धिः अविद्याकृता इत्यत्र दृष्टान्तम् आह -

यथेति ।

पुरःस्थिते वस्तुनि स्थाणौ अविद्यया पुमानिति निश्चयो जायते, तथा देहादौ अनात्मनि आत्मधीः अविद्यातो निश्चिता, इत्यर्थः ।

देहात्मनोः ऐक्यज्ञाने देहधर्मस्य जरादेः आत्मनि, आत्मधर्मस्य च चैतन्यस्य देहे विनिमयः स्यात् , इत्याशङ्क्य, आह -

न चेति ।

स्थाणौ पुरुषत्वं भ्रान्त्या भाति इति एतावता पुरुषधर्मः - शिरःपाण्यादिः न स्थाणोः भवति, तद्धर्मो वा वक्रत्वादिः न पुंसो दृश्यते, मिथ्याध्यस्ततादात्म्यात् वस्तुतो धर्माव्यतिकरात् , इति । दृष्टान्तम् उक्त्वा दार्ष्टन्तिकम् आह -

तथेति ।

जरादेः अनात्मधर्मत्वेऽपि सुखादेः आत्मधर्मत्वम् इति केचित् , तान्प्रति आह - सुखेति । कामसङ्कल्पादिश्रुतेः अनात्मधर्मत्वज्ञानात् , इत्यर्थः ।

किञ्च, विमतः, न आत्मधर्मः अविद्याकृतत्वात् , जरादिवत् । न च हेत्वसिद्धिः, अतस्मिन् तद् - बुद्धिविषयत्वेन स्थाणौ पुरुषत्ववत् अविद्याकृतत्वस्य उक्तत्वात् , इति मत्वा आह -

अविद्येति ।