स्थाणौ पुरुषत्ववत् आविद्यत्वं देहादेः अयुक्तम् , दृष्टान्तदार्ष्टान्तिकयोः वैषम्यात् , इति शङ्कते -
नेति ।
तदेव प्रपञ्चयति -
स्थाण्वित्यादिना ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।
देहात्मबुद्धेः भ्रमत्वाभावे फलितम् आह -
अत इति ।
उपाधिधर्माणां सुखादीनाम् उपहिते जीेवे वस्तुत्वम् अयुक्तम् , अतिप्रसङ्गात् , इति परिहरति -
नेत्यादिना ।
अतिप्रसङ्गमेव प्रकटयति -
यदीति ।
ज्ञेयस्य ज्ञेयान्तरे अध्यासात् , अत्र च उभयोः ज्ञेयत्वस्य व्यापकस्य व्यावृत्त्या व्याप्याध्यासस्यापि व्यावृत्तिः इत्यर्थः ।
सुखादिः आत्मधर्मो न इति पक्षेऽपि नास्ति विशेषहेतुः, इत्याशङ्क्य, आह -
नेति ।
तदेव अनुमानं साधयति -
अविद्येति ।
विमतम् , न आत्मधर्मः, आगमायित्वात् , संसारवत् , इति अनुमानान्तरम् आह -
हेयत्वादिति ।
आदिशब्दात् दृश्यत्वजडत्वादि गृह्यते ।
सुखादीनां जरादिवद् आत्मधर्मत्वाभावे, तस्य वस्तुतः असंसारिता, इति फलितम् आह -
तत्रेति ।
आरोपितेन अधिष्ठानस्य वस्तुतः अस्पर्शे दृष्टान्तम् आह -
यथेति ।