श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
एवं सति, सर्वक्षेत्रेष्वपि सतः भगवतः क्षेत्रज्ञस्य ईश्वरस्य संसारित्वगन्धमात्रमपि नाशङ्क्यम् हि क्वचिदपि लोके अविद्याध्यस्तेन धर्मेण कस्यचित् उपकारः अपकारो वा दृष्टः

पराभिन्नस्य आत्मनः संसारित्वम् अध्यस्तम् इति स्थिते, यत् परस्य संसारित्वापादनम् , तत् अयुक्तम् इत्याह -

एवं चेति ।

आत्मनि संसारस्य अारोपितत्वात् तदभिन्ने परस्मिन् न आशङ्का तस्य अयुक्ता इत्येतद् उपपादयति -

न हीति ।