पराभिन्नस्य आत्मनः संसारित्वम् अध्यस्तम् इति स्थिते, यत् परस्य संसारित्वापादनम् , तत् अयुक्तम् इत्याह -
एवं चेति ।
आत्मनि संसारस्य अारोपितत्वात् तदभिन्ने परस्मिन् न आशङ्का तस्य अयुक्ता इत्येतद् उपपादयति -
न हीति ।