स्याणौ पुरुषनिश्चयवत् आत्मनो देहाद्यात्मत्वनिश्चयस्य अध्यस्तता, इति अयुक्तम् , दृष्टान्तस्य ज्ञेयमात्रविषयत्वात् , इतरस्य ज्ञेयज्ञातृविषयत्वात् , इति उक्तम् अनुवदति -
यत्त्विति ।
वैषम्यं दूषयति -
तदसदिति ।
तर्हि केन साधर्म्यम् , इति पृच्छति -
कथमिति ।
अभीष्टं साधर्म्यं दर्शयति -
अविद्येति ।
तस्य उभयत्र अनुगतिम् आह -
तन्नेति ।
ज्ञेयान्तरे ज्ञेयस्य आरोपनियमात् ज्ञातरि न आरोपः स्यात् , इत्याशङ्क्य आह -
यत्त्विति ।
नायं नियमः, ज्ञातरि जराद्यारोपस्य उक्तत्वात् , इत्याह -
तस्यापीति ।
ज्ञेयस्यैव ज्ञेयान्तरे अध्यासनियमस्य इति यावत् । अतो ज्ञातरि न आरोपव्यभिचारशङ्का, इत्यर्थः ।