ईश्वरत्वे सति आत्मनः असंसारित्वे विधिशास्रस्य अध्यक्षादेश्च आनर्थक्यात् तात्त्विकमेव तस्य संसारित्वम् , इति शङ्कते -
नन्विति ।
विद्यावस्थायाम् अविद्यावस्थायां वा शास्त्रानर्थक्यम् , इति विकल्प्य आद्यं प्रत्याह -
न सर्वैरिति ।
विदुषो मुक्तस्य संसारतदाधारत्वयोः अभावस्य सर्ववादिसम्मतत्वात् तत्र शास्त्रानर्थक्यादि चोद्यं मयैव न प्रतिविधेयम् इत्यर्थः ।
सङ्ग्रहवाक्य विवृणोति -
सर्वैरिति ।
अभिप्रायाज्ञानात् प्रश्ने स्वाभिप्रायम् आह -
कथमित्यादिना ।
तर्हि मुक्तान्प्रति विधिशास्त्रस्य अध्यक्षादेश्च आनर्थक्यम् , इत्याशङ्क्य आह -
न चेति ।
नहि व्यवहारातीतेषु तेषु गुणदोषशङ्का, इत्यर्थः ।
द्वेैतिनां मते, मुक्तात्मस्विव अस्मत्पक्षेऽपि क्षेत्रज्ञस्य ईश्वरत्वे, तं प्रति च शास्त्राद्यानर्थक्यम् विद्यावस्थायाम् आस्थितमिति, फलितम् आह -
तथेति ।
द्वितीयं दूषयति -
अविद्येति ।
तदेव दृष्टान्तेन विवृणोति -
यथेति ।
एवम् - अद्वेैतवादिनामपि विद्योदयात् प्राक् अर्थवत्वं शास्त्रादेः, इति शेषः ।