द्वैेतिभिः अद्वैतिनां न साम्यम् , इति शंकते -
नन्विति ।
अवस्थयोः वस्तुत्वे तन्मते शास्त्राद्यर्थवत्त्वं फलितम् आह -
अत इति ।
सिद्धान्ते तु न अवस्थयोः वस्तुता, इति वैषम्यम् आह -
अद्वैतिनामिति ।
व्यावहारिकं द्वैतं तन्मतेऽपि स्वीकृतम् , इत्याशङ्क्य, आह -
अविद्येति ।
कल्पितद्वैतेन व्यवहारात् न तस्य वस्तुता, इत्यर्थः ।
बन्धावस्थायाः वस्तुत्त्वाभावे दोषान्तरम् आह-
बन्धेति ।
आत्मनः तत्वतः अवस्थाभेदः द्वैतिनामपि नास्ति, इति परिहरति -
नेति ।
अनुपपत्तिं दर्शयितं विकल्पयति -
यदीति ।
तत्र अद्यं दूषयति -
युगपदिति ।
द्वितीयेऽपि क्रमभाविन्योः अवस्थयोः निर्निमित्तत्वं सनिमित्तत्वं वा, इति विकल्प्य, अद्ये सदा प्रसङ्गात् बन्धमोक्षयोः अव्यवस्था स्यात् ; इत्याह -
क्रमेति ।
कल्पान्तरं निरस्यति -
अन्येति ।
बन्धमोक्षावस्थे, न परमार्थे, अस्वाभाविकत्वात् , स्फटिकलौहित्यवत् , इति स्थिते, फलितम् आह -
तथा चेति ।
वस्तुत्वम् इच्छता अवस्थयोः वस्तुत्वोपगमात् , इत्यर्थः ।
इतश्च अवस्थयोः न वस्तुत्वम् , इत्याह -
किञ्चेेति ।
अवस्थयोः वस्तुत्त्वम् इच्छता तयोः यौगपद्यायोगात् वाच्ये क्रमे, बन्धस्य पूर्वत्वं मुक्तेश्च पाश्चात्यम् इति स्थिते, बन्धस्य आदित्वकृतं दोषम् आह -
बन्धेति ।
तस्याश्च अकृताभ्यागमकृतविनाशनिवृत्तये अनादित्वं एष्टव्यम् अन्तवत्त्वञ्च मुक्त्यर्थम् आस्थेयम् ; तच्च यत् अनादिभावरूपं तत् नित्यम् , यथा आत्मा, इति व्याप्तिविरुद्धम् , इत्यर्थः ।
मोक्षस्य पाश्चात्यकृतं दोषम् आह -
तथेति ।
सा हि ज्ञानादिसाध्यात्वात् आदिमती, पुनरावृत्त्यनङ्गीकारात् अनन्ता च । तच्च यद् सादिभावरूपम् तद् अन्तवत् , यथा पटादि, इति व्याप्त्यन्तरविरुद्धम् , इत्यर्थः ।
किञ्च, क्रमभाविनीभ्याम् अवस्थाभ्याम् आत्मा सम्बध्यते, न वा, प्रथमे, पूर्वावस्थया सहैव उत्तरावस्थां गच्छति चेद् , उत्तरावस्थायामपि पूर्वावस्थावस्थानाद् अनिर्मोक्षः ; यदि पूर्वावस्थां त्यक्त्वा उत्तरावस्थां गच्छति, तदा पूर्वत्यागोत्तराप्त्योः आत्मनः सातिशयत्वात् नित्यत्वानुपपत्तिः, इत्याह -
न चेति ।
आत्मनः अवस्थाद्वयसम्बन्धो नास्ति इति, द्वितीयम् अनूद्य दूषयति -
अथेत्यादिना ।