तर्हि, पक्षद्वयेऽपि दोषाविशेषात् न अद्वैतमतानुरागे हेतुः, इत्याशङ्क्य, अविद्याविषये च इत्युक्तं विवृणोति -
न चेति ।
तदेव स्फुटयति -
अविदुषां हीति ।
फलम् - भोक्तृत्वम् , कर्तृत्वम् - हेतुः यद्वा फलम् - देहविशेषः. हेतुं - अदृष्टम् ; तयोः अऩात्मनोः ‘भोक्ताहम् ‘ ‘कर्ताहम् ‘ ‘मनुष्योऽहम् ‘ इत्याद्यात्मदर्शनम् अधिकारकारणम् , तेन अविद्बद्विषयं विधिनिषेधशास्त्रम् इत्यर्थः ।
विदुषामपि ‘मनुष्योऽहम् ‘ इत्यादिव्यवहारात् तद्विषयं शास्त्रं किं न स्यात् ? इत्याशङ्क्य, आह -
नेति ।
भोक्तृत्वकर्तृत्वाभ्यां ब्राह्मण्यादिमतः देहात् धर्माधर्माभ्यां च आत्मनः अन्यत्वं पश्यतः न विधिनिषेधाधिकारित्वम् , उक्तफलादौ आत्मीयाभिमानासम्भवात् , इत्यर्थः ।
आत्मनः देहादेः अन्यत्वदर्शिनः न देहादौ आत्मधीः, इत्येतद् उपपादयति -
न हीति ।
विदुषो न विधिनिषेधाकारिता, इत्युक्तम् उपसंहरति -
तस्मादिति ।
शास्त्रस्य अविद्वद्विषयत्वमिव विद्वद्विषयत्वमपि मन्तव्यम् , उभयोरपि शास्त्रथवणाविशेषात् , इत्याशङ्क्य, आह -
न हीति ।
तत्रस्थः - यस्मिन् देशे देवदत्तः स्थितः, तत्रैव वर्तमानः सन् , इत्यर्थः ।
ननु, देवदत्ते नियुक्ते विष्णुमित्रोऽपि कदाचित् नियुक्तोऽस्मि इति प्रतिपद्यते, सत्यम् , नियोगविषयात् नियोज्यात् आत्मनो विवेकाग्रहणात् नियोज्यत्वभ्रान्तेः, इत्याह -
नियोगेति ।
अविवेकिनो नियोगधीः भवति इति दृष्टान्तम् उक्त्वा, फले हेतौ च आत्मदृष्टिविशिष्टस्य अविदुषः सम्भवत्येव विधिनिपेधाधिकारित्वम् इति दार्ष्टान्तिकम् आह -
तथेति ।