विधिनिषेधशास्रम् अविद्वद्विषयम् इति वदता शास्त्रानर्थक्यं समाहितम् , सम्प्रति शास्त्रस्य विद्वद्विषयत्वेनैव अर्थवत्वं शक्यसमर्थनम् इति शङ्कते -
नन्विति ।
प्रकृतिः - अवद्या, ततो जातो यो देहादौ अभिमातात्मा सम्बन्धः विद्योदयात् प्राक् अनुभूतः, तदपेक्षया विधिना प्रवर्तितोऽम्मि, निपेधेन नवर्तितोऽस्मि, इति विधिनिषेधविषया सत्यामपि विद्यायां धीः युक्तैव, इत्यर्थः ।
विदुषोऽपि पूर्वम् आविद्यं सम्बन्धम् अपेक्ष्य विधिनिषेधविषयां धियम् उक्तामेव व्यक्ताकरोति -
इष्टेति ।
ननु, अविदुषः मिथ्याभिमानवत् न विदुषः सोऽनुवर्तते, तथा च अविद्यासम्बन्धापेक्षया न युक्ता विदुषो यथोक्ता धीः इति तत्राह -
यथेति ।
पिता, पुत्रो, भ्राता, इत्यादीनां मिथः अन्यत्वदृष्टावपि अन्योन्यनियोगार्थस्य निषेधार्यस्य च धीः इष्टा, ‘अथानः सम्पत्तिर्यदा पैष्यन्मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोकः’ (बृ. उ. १-५-१७) इत्यादिसम्प्रत्तिश्रुत्या अशेषानुष्ठानस्य पुवकार्यता प्रतिपादनात् । पुत्रञ्च अधिकृत्य विधिनिषेध प्रवृत्तौ तस्य तदशक्तौ पितुः तदर्था धोः उपगता । तथा भ्रात्रादिष्वपि द्रष्टव्यम् । एवं विदुषः हेतुफलाभ्याम् अन्यत्वदर्शनेऽपि प्राक्कालीनाविद्यदेहादिसम्बन्धात् अविरुद्धा विधिनिषेधा धीः, इत्यर्थः ।
पुत्रादीनां मिथ्याभिमानात् मिथः नियोगधीः युक्ता, तत्त्वदर्शिनस्तु तदभावात् न देहादिसम्बन्धाधीना नियोगधीः इति परहरति -
नेत्यादिना ।
किञ्च ‘सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् ‘ इति सर्वापेक्षाधिकरणे सम्यग्ज्ञानस्य अदृष्टसाध्यत्वोक्तेः विधिनिषेधार्थानुष्ठानं सम्यग्ज्ञानात्पूर्वमिति, कुतो विदुषः तदनुष्ठानम् ? इत्याह -
प्रतिपन्नेति ।
सति अदृष्टे सम्यग्धीदृष्टेः, असति च अशुद्धबुद्धेः तदभावात् , अन्वयव्यतिरेकाभ्याम् , विविदिषावाक्याच्च विधिनिषेधानुष्ठानात् पूर्वं न सम्यग्धीः, इत्याह -
न पूर्वमिति ।
विधिनिषेधयोः विद्वद्विषयत्वायोगे फलितम् आह -
तस्मादिति ।