श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
ननु स्वर्गकामो यजेत’ ( ? ) कलञ्जं भक्षयेत्’ ( ? ) इत्यादौ आत्मव्यतिरेकदर्शिनाम् अप्रवृत्तौ, केवलदेहाद्यात्मदृष्टीनां ; अतः कर्तुः अभावात् शास्त्रानर्थक्यमिति चेत् , ; यथाप्रसिद्धित एव प्रवृत्तिनिवृत्त्युपपत्तेःईश्वरक्षेत्रज्ञैकत्वदर्शी ब्रह्मवित् तावत् प्रवर्ततेतथा नैरात्म्यवाद्यपि नास्ति परलोकः इति प्रवर्ततेयथाप्रसिद्धितस्तु विधिप्रतिषेधशास्त्रश्रवणान्यथानुपपत्त्या अनुमितात्मास्तित्वः आत्मविशेषानभिज्ञः कर्मफलसञ्जाततृष्णः श्रद्दधानतया प्रवर्ततेइति सर्वेषां नः प्रत्यक्षम्अतः शास्त्रानर्थक्यम्

शास्त्रस्य अविद्वद्विषयत्वेन उक्तम् अर्थवत्त्वम् आक्षेपसमाधिभ्यां प्रपञ्चयितुम् आक्षिपति -

नन्विति ।

चकारात् ऊर्ध्वम् अप्रवृत्तिरिति सम्बध्यते । आत्मनो देहाद्व्यतिरेकं पश्यतां देहाद्यभिमानरूपाधिकारहेत्वभावात् विधितो यागादौ अप्रवृत्तिः, निषेधाच्च अभक्ष्यभक्षणादेः न निवृत्तिः । अतः तेषां प्रवृत्तिनिवृत्त्योः अभावे, देहादौ आत्मत्वम् अनुभवतामपि न ते युक्ते तेषां पारलौकिकभोक्तृप्रतिपत्त्यभावात् , इत्यर्थः ।

विदुषाम् अविदुषां च प्रवृत्तिनिवृत्त्यभावे फलितम् आह-

अत इति ।

आत्मनो देहाद्यतिरेकं परोक्षम् अपरोक्षं च देहाद्यात्मत्वं पश्यतः शास्त्रानुरोधादेव प्रवृत्तिमिवृत्त्युपपत्तेः न शास्त्रानर्थक्यम् , इति उत्तरम् आह -

नेत्यादिना ।

प्रसिद्धिः अत्र शास्त्रीया अभिमता ।

एतदेव विवृण्वन् ब्रह्मविदो वा, नैरात्म्यवादिनो वा, परोक्षज्ञानवतो वा, प्रवृत्तिनिवृत्ती विवक्षसि, इति विकल्प्य, आद्यं दूषयति -

ईश्वरेति ।

न निवर्तते च इत्यपि द्रष्टव्यम् ।

द्वितीयं निरस्यति -

तथेति ।

पूर्ववत् अत्रापि सम्बन्धः ।

तृतीयम् अङ्गीकरोति -

यथेति ।

विधिनिषेधादीनां प्रसिद्धिं अनुरुन्धानः सन् इति यावत् । चकारात् निवर्नते च इति अऩुकृष्यते ।

ब्रह्मविदं नैरात्म्यवादिनं च त्यकत्वा देहाद्यतिरिक्तम् आत्मानां परोक्षम् , अपरोक्षं च देहाद्यात्मत्वं पश्यतः, विधिनिषेधाधिकारित्वे सिद्धे फलम् आह -

अत इति ।