विधान्तरेण शस्रार्थानर्थक्य चोदयति -
विवेकिनामिति ।
दृष्टा हि तेषां विधिनिषेधयोः अप्रवृत्तिः, न हि देहादिभ्यो निष्कृष्टं आत्मानं दृष्टवतां तयोः अधिकारः, तेन तान् प्रति शास्त्रं न अर्थवत् । न च देहाद्यात्मत्वदृशः तत्र अधिक्रियन्ते, तेषां ‘यद्यदाचरति’ (भ. गी. ३-२१) इति न्यायेन विवेकिनः अनुगच्छतां विध्यादौ अप्रवृत्तेः ; अतः अधिकार्यभावात् विध्यादिशास्त्रस्य तदनुसारिशिष्टाचारस्य च आनर्तक्यम् , इत्यर्थः ।
किं सर्वेषां विवेकित्वात् अधिकार्यभावात् आनर्थक्यं शास्त्रस्य उच्यते? किं वा कस्यचिदेव विवेकित्वेऽपि तदनुवर्त्तित्वात् अन्येषाम् अप्रवृत्तेः आनर्थक्यं चोद्यते? तत्र प्रथमं प्रत्याह -
न कस्यचिदिति ।