श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
कस्यचिदेव विवेकोपपत्तेःअनेकेषु हि प्राणिषु कश्चिदेव विवेकी स्यात् , यथेदानीम् विवेकिनम् अनुवर्तन्ते मूढाः, रागादिदोषतन्त्रत्वात् प्रवृत्तेः, अभिचरणादौ प्रवृत्तिदर्शनात् , स्वाभाव्याच्च प्रवृत्तेःस्वभावस्तु प्रवर्तते’ (भ. गी. ५ । १४) इति हि उक्तम्

‘मनुष्याणां सहस्रेषु’ (भ. गी. ७-३) इति न्यायेन उक्तमेव स्फुटयति -

अनेकेष्विति ।

तत्र अनुभवानुरोधेन दृष्टान्तम् आह -

यथेति ।

द्वितीयं दूषयति -

न चेति ।

किञ्च, विवेकिनाम् अप्रवृत्तौ अन्येषामपि अप्रवृत्तिः, इति आशङ्कां निरसितुम् , श्येनादौ तदप्रवृत्तावपि इतरप्रवृत्तेः, इत्याह -

अभिचरणादौ चेति ।

अविवेकिनां रागादिशरा प्रवृत्त्यास्पदं सर्वं सङ्ग्रहीतुम् आदिपदम् । इतश्च विवेकिनां प्रवृत्त्याभावेऽपि न अज्ञस्य अप्रवृनिः, इत्याह -

स्वाभाव्याच्चेति ।

प्रवृत्तेः स्वभावाख्याज्ञानकार्यत्वे भगवद्वाक्यम् अनुकुलयति -

स्वभावस्त्विति ।