श्रीमद्भगवद्गीताभाष्यम्
आनन्दगिरिटीका (गीताभाष्य)
 
क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ॥ २ ॥
तस्मात् अविद्यामात्रं संसारः यथादृष्टविषयः एव क्षेत्रज्ञस्य केवलस्य अविद्या तत्कार्यं मिथ्याज्ञानं परमार्थवस्तु दूषयितुं समर्थम् हि ऊषरदेशं स्नेहेन पङ्कीकर्तुं शक्नोति मरीच्युदकम्तथा अविद्या क्षेत्रज्ञस्य किञ्चित् कर्तुं शक्नोतिअतश्चेदमुक्तम्क्षेत्रज्ञं चापि मां विद्धि’ (भ. गी. १३ । २), अज्ञानेनावृतं ज्ञानम्’ (भ. गी. ५ । १५) इति

प्रवृत्तेः अज्ञानजत्वे विधिनिषेधाधीन वृत्तिनिवृत्त्यात्मक सन्धम्य अविद्यामात्रत्वात् अविद्वद्विषयत्वं शास्त्रस्य सिद्धम् , इति फलितम् आह -

तस्मादिति ।

दृष्टमेव अनुमरन् अविद्वान् , यथादृष्टः ; तद्विषयः - तदाश्रयः संसारः, तथा च प्रवृत्तिनिवृत्त्यात्मकसंसारस्य अविद्वद्विषयत्वात् तद्धेतुविधिशास्रस्यापि तद्विषयत्वाम् , इत्यर्थः ।

ननु, अविद्या क्षेत्रज्ञं आश्रयन्ती स्वकार्यं संसारमपि तस्मिन् आधत्ते, तेन तस्यैव शास्राध्रिकारित्वम् ; नेत्याह -

नेति ।

अविद्यादेः शुद्घे क्षेत्रज्ञे वस्तुतः असम्बन्धेऽपि, तस्मिन् आरोपितं तमेव दुःखीकरोति, इति, अत्राह -

न चेति ।

तदेव दृष्टान्तेन स्पष्टयति -

न हीति ।

क्षेत्रज्ञस्य वस्तुतः अविद्याऽसम्बन्धे भगववृचोऽपि द्योतकम् , इत्याह -

अत इति ।

क्षेत्रज्ञेश्वरयोः ऐक्ये किमिति असौ आत्मानम् अहमिति बुध्यमानोऽपि स्वस्य ईश्वरत्वम् ईश्वरोऽस्मि इति न बुध्यते, तत्राह -

अज्ञानेनेति ।